Devi Mahatmya · Durga Saptashati
Chapter 13: The Boons to Suratha and the Merchant
देवीमाहात्म्यम् · दुर्गासप्तशती · त्रयोदशोऽध्यायः · सुरथवैश्ययोर्वरप्रदानम्
The sage ends the story. King Suratha and the merchant Samadhi worship Devi; she grants Suratha his kingdom and a future life as the Manu Savarni. Listen to the whole chapter in Sanskrit and follow the verses as they are read. About 4 minutes.
Press play, or choose a verse below.
-
Dhyanam
ध्यानम्॥
ॐ बालार्कमण्डलाभासां चतुर्बाहुं त्रिलोचनाम्।
पाशाङ्कुशवराभीतीर्धारयन्तीं शिवां भजे॥ -
Mantra 1-2
ॐ ऋषिरुवाच॥ एतत्ते कथितं भूप देवीमाहात्म्यमुत्तमम्। एवंप्रभावा सा देवी ययेदं धार्यते जगत्॥
-
Mantra 3
विद्या तथैव क्रियते भगवद्विष्णुमायया। तया त्वमेष वैश्यश्च तथैवान्ये विवेकिनः॥
-
Mantra 4
मोह्यन्ते मोहिताश्चैव मोहमेष्यन्ति चापरे। तामुपैहि महाराज शरणं परमेश्वरीम्॥
-
Mantra 5
आराधिता सैव नृणां भोगस्वर्गापवर्गदा॥
-
Mantra 6-7
मार्कण्डेय उवाच॥ इति तस्य वचः श्रुत्वा सुरथः स नराधिपः॥
-
Mantra 8
प्रणिपत्य महाभागं तमृषिं शंसितव्रतम्। निर्विण्णोऽतिममत्वेन राज्यापहरणेन च॥
-
Mantra 9
जगाम सद्यस्तपसे स च वैश्यो महामुने। सन्दर्शनार्थमम्बाया नदीपुलिनसंस्थितः॥
-
Mantra 10
स च वैश्यस्तपस्तेपे देवीसूक्तं परं जपन्। तौ तस्मिन् पुलिने देव्याः कृत्वा मूर्तिं महीमयीम्॥
-
Mantra 11
अर्हणां चक्रतुस्तस्याः पुष्पधूपाग्नितर्पणैः। निराहारौ यताहारौ तन्मनस्कौ समाहितौ॥
-
Mantra 12
ददतुस्तौ बलिं चैव निजगात्रासृगुक्षितम्। एवं समाराधयतोस्त्रिभिर्वर्षैर्यतात्मनोः॥
-
Mantra 13
परितुष्टा जगद्धात्री प्रत्यक्षं प्राह चण्डिका॥
-
Mantra 14-15
देव्युवाच॥ यत्प्रार्थ्यते त्वया भूप त्वया च कुलनन्दन। मत्तस्तत्प्राप्यतां सर्वं परितुष्टा ददामि तत्॥
-
Mantra 16-17
मार्कण्डेय उवाच॥ ततो वव्रे नृपो राज्यमविभ्रंश्यन्यजन्मनि। अत्रैव च निजं राज्यं हतशत्रुबलं बलात्॥
-
Mantra 18
सोऽपि वैश्यस्ततो ज्ञानं वव्रे निर्विण्णमानसः। ममेत्यहमिति प्राज्ञः सङ्गविच्युतिकारकम्॥
-
Mantra 19-20
देव्युवाच॥ स्वल्पैरहोभिर्नृपते स्वं राज्यं प्राप्स्यते भवान्॥
-
Mantra 21
हत्वा रिपूनस्खलितं तव तत्र भविष्यति॥
-
Mantra 22
मृतश्च भूयः सम्प्राप्य जन्म देवाद्विवस्वतः॥
-
Mantra 23
सावर्णिको नाम मनुर्भवान् भुवि भविष्यति॥
-
Mantra 24
वैश्यवर्य त्वया यश्च वरोऽस्मत्तोऽभिवाञ्छितः॥
-
Mantra 25
तं प्रयच्छामि संसिद्ध्यै तव ज्ञानं भविष्यति॥
-
Mantra 26-27
मार्कण्डेय उवाच॥ इति दत्त्वा तयोर्देवी यथाभिलषितं वरम्॥
-
Mantra 28
बभूवान्तर्हिता सद्यो भक्त्या ताभ्यामभिष्टुता। एवं देव्या वरं लब्ध्वा सुरथः क्षत्रियर्षभः॥
-
Mantra 29
सूर्याज्जन्म समासाद्य सावर्णिर्भविता मनुः॥
-
Colophon
इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये सुरथवैश्ययोर्वरप्रदानं नाम त्रयोदशोऽध्यायः॥
Mantra numbers follow the Gita Press numbering, in which the line naming the speaker (such as “ऋषिरुवाच”) counts as a mantra of its own and is read together with the verse that follows.