Devi Mahatmya · Durga Saptashati

Chapter 12: The Fruits of Hearing

देवीमाहात्म्यम् · दुर्गासप्तशती · द्वादशोऽध्यायः · फलस्तुतिः

The Goddess describes how those who recite or hear this text, and keep her festivals, are protected from danger, and what blessings it brings. Listen to the whole chapter in Sanskrit and follow the verses as they are read. About 7 minutes.

The Sanskrit follows the Gita Press text of the Saptashati (41 numbered mantras in this chapter), checked against other published copies where the editions differ. The voice is an AI voice reading Sanskrit and is not a substitute for learning the chant from a teacher. Please listen before using it for any ritual or devotional purpose.
0:00 / 7:23

Press play, or choose a verse below.

  1. Dhyanam

    ध्यानम्॥
    ॐ विद्युद्दामसमप्रभां मृगपतिस्कन्धस्थितां भीषणां
    कन्याभिः करवालखेटविलसद्धस्ताभिरासेविताम्।
    हस्तैश्चक्रगदासिखेटविशिखांश्चापं गुणं तर्जनीं
    बिभ्राणामनलात्मिकां शशिधरां दुर्गां त्रिनेत्रां भजे॥

  2. Mantra 1-2

    ॐ देव्युवाच॥ एभिः स्तवैश्च मां नित्यं स्तोष्यते यः समाहितः। तस्याहं सकलां बाधां नाशयिष्याम्यसंशयम्॥

  3. Mantra 3

    मधुकैटभनाशं च महिषासुरघातनम्। कीर्तयिष्यन्ति ये तद्वद् वधं शुम्भनिशुम्भयोः॥

  4. Mantra 4

    अष्टम्यां च चतुर्दश्यां नवम्यां चैकचेतसः। श्रोष्यन्ति चैव ये भक्त्या मम माहात्म्यमुत्तमम्॥

  5. Mantra 5

    न तेषां दुष्कृतं किञ्चिद् दुष्कृतोत्था न चापदः। भविष्यति न दारिद्र्यं न चैवेष्टवियोजनम्॥

  6. Mantra 6

    शत्रुतो न भयं तस्य दस्युतो वा न राजतः। न शस्त्रानलतोयौघात्कदाचित्सम्भविष्यति॥

  7. Mantra 7

    तस्मान्ममैतन्माहात्म्यं पठितव्यं समाहितैः। श्रोतव्यं च सदा भक्त्या परं स्वस्त्ययनं हि तत्॥

  8. Mantra 8

    उपसर्गानशेषांस्तु महामारीसमुद्भवान्। तथा त्रिविधमुत्पातं माहात्म्यं शमयेन्मम॥

  9. Mantra 9

    यत्रैतत्पठ्यते सम्यङ्नित्यमायतने मम। सदा न तद्विमोक्ष्यामि सान्निध्यं तत्र मे स्थितम्॥

  10. Mantra 10

    बलिप्रदाने पूजायामग्निकार्ये महोत्सवे। सर्वं ममैतच्चरितमुच्चार्यं श्राव्यमेव च॥

  11. Mantra 11

    जानताऽजानता वापि बलिपूजां तथा कृताम्। प्रतीच्छिष्याम्यहं प्रीत्या वह्निहोमं तथा कृतम्॥

  12. Mantra 12

    शरत्काले महापूजा क्रियते या च वार्षिकी। तस्यां ममैतन्माहात्म्यं श्रुत्वा भक्तिसमन्वितः॥

  13. Mantra 13

    सर्वाबाधाविनिर्मुक्तो धनधान्यसुतान्वितः। मनुष्यो मत्प्रसादेन भविष्यति न संशयः॥

  14. Mantra 14

    श्रुत्वा ममैतन्माहात्म्यं तथा चोत्पत्तयः शुभाः। पराक्रमं च युद्धेषु जायते निर्भयः पुमान्॥

  15. Mantra 15

    रिपवः संक्षयं यान्ति कल्याणं चोपपद्यते। नन्दते च कुलं पुंसां माहात्म्यं मम शृण्वताम्॥

  16. Mantra 16

    शान्तिकर्मणि सर्वत्र तथा दुःस्वप्नदर्शने। ग्रहपीडासु चोग्रासु माहात्म्यं शृणुयान्मम॥

  17. Mantra 17

    उपसर्गाः शमं यान्ति ग्रहपीडाश्च दारुणाः। दुःस्वप्नं च नृभिर्दृष्टं सुस्वप्नमुपजायते॥

  18. Mantra 18

    बालग्रहाभिभूतानां बालानां शान्तिकारकम्। सङ्घातभेदे च नृणां मैत्रीकरणमुत्तमम्॥

  19. Mantra 19

    दुर्वृत्तानामशेषाणां बलहानिकरं परम्। रक्षोभूतपिशाचानां पठनादेव नाशनम्॥

  20. Mantra 20

    सर्वं ममैतन्माहात्म्यं मम सन्निधिकारकम्। पशुपुष्पार्घ्यधूपैश्च गन्धदीपैस्तथोत्तमैः॥

  21. Mantra 21

    विप्राणां भोजनैर्होमैः प्रोक्षणीयैरहर्निशम्। अन्यैश्च विविधैर्भोगैः प्रदानैर्वत्सरेण या॥

  22. Mantra 22

    प्रीतिर्मे क्रियते सास्मिन् सकृत्सुचरिते श्रुते। श्रुतं हरति पापानि तथाऽऽरोग्यं प्रयच्छति॥

  23. Mantra 23

    रक्षां करोति भूतेभ्यो जन्मनां कीर्तनं मम। युद्धेषु चरितं यन्मे दुष्टदैत्यनिबर्हणम्॥

  24. Mantra 24

    तस्मिञ्छ्रुते वैरिकृतं भयं पुंसां न जायते। युष्माभिः स्तुतयो याश्च याश्च ब्रह्मर्षिभिः कृताः॥

  25. Mantra 25

    ब्रह्मणा च कृतास्तास्तु प्रयच्छन्ति शुभां मतिम्। अरण्ये प्रान्तरे वापि दावाग्निपरिवारितः॥

  26. Mantra 26

    दस्युभिर्वा वृतः शून्ये गृहीतो वापि शत्रुभिः। सिंहव्याघ्रानुयातो वा वने वा वनहस्तिभिः॥

  27. Mantra 27

    राज्ञा क्रुद्धेन चाज्ञप्तो वध्यो बन्धगतोऽपि वा। आघूर्णितो वा वातेन स्थितः पोते महार्णवे॥

  28. Mantra 28

    पतत्सु चापि शस्त्रेषु सङ्ग्रामे भृशदारुणे। सर्वाबाधासु घोरासु वेदनाभ्यर्दितोऽपि वा॥

  29. Mantra 29

    स्मरन्ममैतच्चरितं नरो मुच्येत सङ्कटात्। मम प्रभावात्सिंहाद्या दस्यवो वैरिणस्तथा॥

  30. Mantra 30

    दूरादेव पलायन्ते स्मरतश्चरितं मम॥

  31. Mantra 31-32

    ऋषिरुवाच॥ इत्युक्त्वा सा भगवती चण्डिका चण्डविक्रमा॥

  32. Mantra 33

    पश्यतामेव देवानां तत्रैवान्तरधीयत। तेऽपि देवा निरातङ्काः स्वाधिकारान् यथा पुरा॥

  33. Mantra 34

    यज्ञभागभुजः सर्वे चक्रुर्विनिहतारयः। दैत्याश्च देव्या निहते शुम्भे देवरिपौ युधि॥

  34. Mantra 35

    जगद्विध्वंसिनि तस्मिन् महोग्रेऽतुलविक्रमे। निशुम्भे च महावीर्ये शेषाः पातालमाययुः॥

  35. Mantra 36

    एवं भगवती देवी सा नित्यापि पुनः पुनः। सम्भूय कुरुते भूप जगतः परिपालनम्॥

  36. Mantra 37

    तयैतन्मोह्यते विश्वं सैव विश्वं प्रसूयते। सा याचिता च विज्ञानं तुष्टा ऋद्धिं प्रयच्छति॥

  37. Mantra 38

    व्याप्तं तयैतत्सकलं ब्रह्माण्डं मनुजेश्वर। महाकाल्या महाकाले महामारीस्वरूपया॥

  38. Mantra 39

    सैव काले महामारी सैव सृष्टिर्भवत्यजा। स्थितिं करोति भूतानां सैव काले सनातनी॥

  39. Mantra 40

    भवकाले नृणां सैव लक्ष्मीर्वृद्धिप्रदा गृहे। सैवाभावे तथाऽलक्ष्मीर्विनाशायोपजायते॥

  40. Mantra 41

    स्तुता सम्पूजिता पुष्पैर्धूपगन्धादिभिस्तथा। ददाति वित्तं पुत्रांश्च मतिं धर्मे गतिं शुभाम्॥ॐ॥

  41. Colophon

    इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये फलस्तुतिर्नाम द्वादशोऽध्यायः॥

Mantra numbers follow the Gita Press numbering, in which the line naming the speaker (such as “ऋषिरुवाच”) counts as a mantra of its own and is read together with the verse that follows.