Devi Mahatmya · Durga Saptashati
Chapter 1: The Slaying of Madhu and Kaitabha
देवीमाहात्म्यम् · दुर्गासप्तशती · प्रथमोऽध्यायः · मधुकैटभवधः
Sage Medhas tells King Suratha and the merchant Samadhi about Mahamaya. Brahma praises Yoganidra, who wakes Vishnu, and Madhu and Kaitabha are slain. Listen to the whole chapter in Sanskrit and follow the verses as they are read. About 16 minutes.
Press play, or choose a verse below.
-
Viniyoga
ॐ प्रथमचरित्रस्य ब्रह्मा ऋषिः, महाकाली देवता, गायत्री छन्दः, नन्दा शक्तिः, रक्तदन्तिका बीजम्, अग्निस्तत्त्वम्, ऋग्वेदः स्वरूपम्, श्रीमहाकालीप्रीत्यर्थे प्रथमचरित्रजपे विनियोगः।
-
Dhyanam
ध्यानम्॥
ॐ खड्गं चक्रगदेषुचापपरिघाञ्छूलं भुशुण्डीं शिरः
शङ्खं सन्दधतीं करैस्त्रिनयनां सर्वाङ्गभूषावृताम्।
नीलाश्मद्युतिमास्यपाददशकां सेवे महाकालिकां
यामस्तौत्स्वपिते हरौ कमलजो हन्तुं मधुं कैटभम्॥
ॐ नमश्चण्डिकायै -
Mantra 1-2
ॐ ऐं मार्कण्डेय उवाच॥ सावर्णिः सूर्यतनयो यो मनुः कथ्यतेऽष्टमः। निशामय तदुत्पत्तिं विस्तराद् गदतो मम॥
-
Mantra 3
महामायानुभावेन यथा मन्वन्तराधिपः। स बभूव महाभागः सावर्णिस्तनयो रवेः॥
-
Mantra 4
स्वारोचिषेऽन्तरे पूर्वं चैत्रवंशसमुद्भवः। सुरथो नाम राजाभूत्समस्ते क्षितिमण्डले॥
-
Mantra 5
तस्य पालयतः सम्यक् प्रजाः पुत्रानिवौरसान्। बभूवुः शत्रवो भूपाः कोलाविध्वंसिनस्तदा॥
-
Mantra 6
तस्य तैरभवद् युद्धमतिप्रबलदण्डिनः। न्यूनैरपि स तैर्युद्धे कोलाविध्वंसिभिर्जितः॥
-
Mantra 7
ततः स्वपुरमायातो निजदेशाधिपोऽभवत्। आक्रान्तः स महाभागस्तैस्तदा प्रबलारिभिः॥
-
Mantra 8
अमात्यैर्बलिभिर्दुष्टैर्दुर्बलस्य दुरात्मभिः। कोशो बलं चापहृतं तत्रापि स्वपुरे ततः॥
-
Mantra 9
ततो मृगयाव्याजेन हृतस्वाम्यः स भूपतिः। एकाकी हयमारुह्य जगाम गहनं वनम्॥
-
Mantra 10
स तत्राश्रममद्राक्षीद् द्विजवर्यस्य मेधसः। प्रशान्तश्वापदाकीर्णं मुनिशिष्योपशोभितम्॥
-
Mantra 11
तस्थौ कंचित्स कालं च मुनिना तेन सत्कृतः। इतश्चेतश्च विचरंस्तस्मिन्मुनिवराश्रमे॥
-
Mantra 12
सोऽचिन्तयत्तदा तत्र ममत्वाकृष्टचेतनः। मत्पूर्वैः पालितं पूर्वं मया हीनं पुरं हि तत्॥
-
Mantra 13
मद्भृत्यैस्तैरसद्वृत्तैर्धर्मतः पाल्यते न वा। न जाने स प्रधानो मे शूरहस्ती सदामदः॥
-
Mantra 14
मम वैरिवशं यातः कान् भोगानुपलप्स्यते। ये ममानुगता नित्यं प्रसादधनभोजनैः॥
-
Mantra 15
अनुवृत्तिं ध्रुवं तेऽद्य कुर्वन्त्यन्यमहीभृताम्। असम्यग्व्ययशीलैस्तैः कुर्वद्भिः सततं व्ययम्॥
-
Mantra 16
सञ्चितः सोऽतिदुःखेन क्षयं कोशो गमिष्यति। एतच्चान्यच्च सततं चिन्तयामास पार्थिवः॥
-
Mantra 17
तत्र विप्राश्रमाभ्याशे वैश्यमेकं ददर्श सः। स पृष्टस्तेन कस्त्वं भो हेतुश्चागमनेऽत्र कः॥
-
Mantra 18
सशोक इव कस्मात्त्वं दुर्मना इव लक्ष्यसे। इत्याकर्ण्य वचस्तस्य भूपतेः प्रणयोदितम्॥
-
Mantra 19
प्रत्युवाच स तं वैश्यः प्रश्रयावनतो नृपम्॥
-
Mantra 20-21
वैश्य उवाच॥ समाधिर्नाम वैश्योऽहमुत्पन्नो धनिनां कुले॥
-
Mantra 22
पुत्रदारैर्निरस्तश्च धनलोभादसाधुभिः। विहीनश्च धनैर्दारैः पुत्रैरादाय मे धनम्॥
-
Mantra 23
वनमभ्यागतो दुःखी निरस्तश्चाप्तबन्धुभिः। सोऽहं न वेद्मि पुत्राणां कुशलाकुशलात्मिकाम्॥
-
Mantra 24
प्रवृत्तिं स्वजनानां च दाराणां चात्र संस्थितः। किं नु तेषां गृहे क्षेममक्षेमं किं नु साम्प्रतम्॥
-
Mantra 25
कथं ते किं नु सद्वृत्ता दुर्वृत्ताः किं नु मे सुताः॥
-
Mantra 26-27
राजोवाच॥ यैर्निरस्तो भवाँल्लुब्धैः पुत्रदारादिभिर्धनैः॥
-
Mantra 28
तेषु किं भवतः स्नेहमनुबध्नाति मानसम्॥
-
Mantra 29-30
वैश्य उवाच॥ एवमेतद्यथा प्राह भवानस्मद्गतं वचः॥
-
Mantra 31
किं करोमि न बध्नाति मम निष्ठुरतां मनः। यैः संत्यज्य पितृस्नेहं धनलुब्धैर्निराकृतः॥
-
Mantra 32
पतिस्वजनहार्दं च हार्दि तेष्वेव मे मनः। किमेतन्नाभिजानामि जानन्नपि महामते॥
-
Mantra 33
यत्प्रेमप्रवणं चित्तं विगुणेष्वपि बन्धुषु। तेषां कृते मे निःश्वासो दौर्मनस्यं च जायते॥
-
Mantra 34
करोमि किं यन्न मनस्तेष्वप्रीतिषु निष्ठुरम्॥
-
Mantra 35-36
मार्कण्डेय उवाच॥ ततस्तौ सहितौ विप्र तं मुनिं समुपस्थितौ॥
-
Mantra 37
समाधिर्नाम वैश्योऽसौ स च पार्थिवसत्तमः। कृत्वा तु तौ यथान्यायं यथार्हं तेन संविदम्॥
-
Mantra 38
उपविष्टौ कथाः काश्चिच्चक्रतुर्वैश्यपार्थिवौ॥
-
Mantra 39-40
राजोवाच॥ भगवंस्त्वामहं प्रष्टुमिच्छाम्येकं वदस्व तत्॥
-
Mantra 41
दुःखाय यन्मे मनसः स्वचित्तायत्ततां विना। ममत्वं गतराज्यस्य राज्याङ्गेष्वखिलेष्वपि॥
-
Mantra 42
जानतोऽपि यथाज्ञस्य किमेतन्मुनिसत्तम। अयं च निकृतः पुत्रैर्दारैर्भृत्यैस्तथोज्झितः॥
-
Mantra 43
स्वजनेन च संत्यक्तस्तेषु हार्दी तथाप्यति। एवमेष तथाहं च द्वावप्यत्यन्तदुःखितौ॥
-
Mantra 44
दृष्टदोषेऽपि विषये ममत्वाकृष्टमानसौ। तत्किमेतन्महाभाग यन्मोहो ज्ञानिनोरपि॥
-
Mantra 45
ममास्य च भवत्येषा विवेकान्धस्य मूढता॥
-
Mantra 46-47
ऋषिरुवाच॥ ज्ञानमस्ति समस्तस्य जन्तोर्विषयगोचरे॥
-
Mantra 48
विषयश्च महाभाग याति चैवं पृथक् पृथक्। दिवान्धाः प्राणिनः केचिद्रात्रावन्धास्तथापरे॥
-
Mantra 49
केचिद्दिवा तथा रात्रौ प्राणिनस्तुल्यदृष्टयः। ज्ञानिनो मनुजाः सत्यं किं तु ते न हि केवलम्॥
-
Mantra 50
यतो हि ज्ञानिनः सर्वे पशुपक्षिमृगादयः। ज्ञानं च तन्मनुष्याणां यत्तेषां मृगपक्षिणाम्॥
-
Mantra 51
मनुष्याणां च यत्तेषां तुल्यमन्यत्तथोभयोः। ज्ञानेऽपि सति पश्यैतान् पतङ्गाञ्छावचञ्चुषु॥
-
Mantra 52
कणमोक्षादृतान्मोहात्पीड्यमानानपि क्षुधा। मानुषा मनुजव्याघ्र साभिलाषाः सुतान् प्रति॥
-
Mantra 53
लोभात्प्रत्युपकाराय नन्वेतान् किं न पश्यसि। तथापि ममतावर्त्ते मोहगर्ते निपातिताः॥
-
Mantra 54
महामायाप्रभावेण संसारस्थितिकारिणा। तन्नात्र विस्मयः कार्यो योगनिद्रा जगत्पतेः॥
-
Mantra 55
महामाया हरेश्चैषा तया सम्मोह्यते जगत्। ज्ञानिनामपि चेतांसि देवी भगवती हि सा॥
-
Mantra 56
बलादाकृष्य मोहाय महामाया प्रयच्छति। तया विसृज्यते विश्वं जगदेतच्चराचरम्॥
-
Mantra 57
सैषा प्रसन्ना वरदा नृणां भवति मुक्तये। सा विद्या परमा मुक्तेर्हेतुभूता सनातनी॥
-
Mantra 58
संसारबन्धहेतुश्च सैव सर्वेश्वरेश्वरी॥
-
Mantra 59-60
राजोवाच॥ भगवन् का हि सा देवी महामायेति यां भवान्॥
-
Mantra 61
ब्रवीति कथमुत्पन्ना सा कर्मास्याश्च किं द्विज। यत्प्रभावा च सा देवी यत्स्वरूपा यदुद्भवा॥
-
Mantra 62
तत्सर्वं श्रोतुमिच्छामि त्वत्तो ब्रह्मविदां वर॥
-
Mantra 63-64
ऋषिरुवाच॥ नित्यैव सा जगन्मूर्तिस्तया सर्वमिदं ततम्॥
-
Mantra 65
तथापि तत्समुत्पत्तिर्बहुधा श्रूयतां मम। देवानां कार्यसिद्ध्यर्थमाविर्भवति सा यदा॥
-
Mantra 66
उत्पन्नेति तदा लोके सा नित्याप्यभिधीयते। योगनिद्रां यदा विष्णुर्जगत्येकार्णवीकृते॥
-
Mantra 67
आस्तीर्य शेषमभजत्कल्पान्ते भगवान् प्रभुः। तदा द्वावसुरौ घोरौ विख्यातौ मधुकैटभौ॥
-
Mantra 68
विष्णुकर्णमलोद्भूतौ हन्तुं ब्रह्माणमुद्यतौ। स नाभिकमले विष्णोः स्थितो ब्रह्मा प्रजापतिः॥
-
Mantra 69
दृष्ट्वा तावसुरौ चोग्रौ प्रसुप्तं च जनार्दनम्। तुष्टाव योगनिद्रां तामेकाग्रहृदयस्थितः॥
-
Mantra 70
विबोधनार्थाय हरेर्हरिनेत्रकृतालयाम्। विश्वेश्वरीं जगद्धात्रीं स्थितिसंहारकारिणीम्॥
-
Mantra 71
निद्रां भगवतीं विष्णोरतुलां तेजसः प्रभुः॥
-
Mantra 72-73
ब्रह्मोवाच॥ त्वं स्वाहा त्वं स्वधा त्वं हि वषट्कारः स्वरात्मिका॥
-
Mantra 74
सुधा त्वमक्षरे नित्ये त्रिधा मात्रात्मिका स्थिता। अर्धमात्रा स्थिता नित्या यानुच्चार्या विशेषतः॥
-
Mantra 75
त्वमेव सन्ध्या सावित्री त्वं देवि जननी परा। त्वयैतद्धार्यते विश्वं त्वयैतत्सृज्यते जगत्॥
-
Mantra 76
त्वयैतत्पाल्यते देवि त्वमत्स्यन्ते च सर्वदा। विसृष्टौ सृष्टिरूपा त्वं स्थितिरूपा च पालने॥
-
Mantra 77
तथा संहृतिरूपान्ते जगतोऽस्य जगन्मये। महाविद्या महामाया महामेधा महास्मृतिः॥
-
Mantra 78
महामोहा च भवती महादेवी महासुरी। प्रकृतिस्त्वं च सर्वस्य गुणत्रयविभाविनी॥
-
Mantra 79
कालरात्रिर्महारात्रिर्मोहरात्रिश्च दारुणा। त्वं श्रीस्त्वमीश्वरी त्वं ह्रीस्त्वं बुद्धिर्बोधलक्षणा॥
-
Mantra 80
लज्जा पुष्टिस्तथा तुष्टिस्त्वं शान्तिः क्षान्तिरेव च। खड्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा॥
-
Mantra 81
शङ्खिनी चापिनी बाणभुशुण्डीपरिघायुधा। सौम्या सौम्यतराशेषसौम्येभ्यस्त्वतिसुन्दरी॥
-
Mantra 82
परापराणां परमा त्वमेव परमेश्वरी। यच्च किञ्चित्क्वचिद्वस्तु सदसद्वाखिलात्मिके॥
-
Mantra 83
तस्य सर्वस्य या शक्तिः सा त्वं किं स्तूयसे तदा। यया त्वया जगत्स्रष्टा जगत्पात्यत्ति यो जगत्॥
-
Mantra 84
सोऽपि निद्रावशं नीतः कस्त्वां स्तोतुमिहेश्वरः। विष्णुः शरीरग्रहणमहमीशान एव च॥
-
Mantra 85
कारितास्ते यतोऽतस्त्वां कः स्तोतुं शक्तिमान् भवेत्। सा त्वमित्थं प्रभावैः स्वैरुदारैर्देवि संस्तुता॥
-
Mantra 86
मोहयैतौ दुराधर्षावसुरौ मधुकैटभौ। प्रबोधं च जगत्स्वामी नीयतामच्युतो लघु॥
-
Mantra 87
बोधश्च क्रियतामस्य हन्तुमेतौ महासुरौ॥
-
Mantra 88-89
ऋषिरुवाच॥ एवं स्तुता तदा देवी तामसी तत्र वेधसा॥
-
Mantra 90
विष्णोः प्रबोधनार्थाय निहन्तुं मधुकैटभौ। नेत्रास्यनासिकाबाहुहृदयेभ्यस्तथोरसः॥
-
Mantra 91
निर्गम्य दर्शने तस्थौ ब्रह्मणोऽव्यक्तजन्मनः। उत्तस्थौ च जगन्नाथस्तया मुक्तो जनार्दनः॥
-
Mantra 92
एकार्णवेऽहिशयनात्ततः स ददृशे च तौ। मधुकैटभौ दुरात्मानावतिवीर्यपराक्रमौ॥
-
Mantra 93
क्रोधरक्तेक्षणावत्तुं ब्रह्माणं जनितोद्यमौ। समुत्थाय ततस्ताभ्यां युयुधे भगवान् हरिः॥
-
Mantra 94
पञ्चवर्षसहस्राणि बाहुप्रहरणो विभुः। तावप्यतिबलोन्मत्तौ महामायाविमोहितौ॥
-
Mantra 95
उक्तवन्तौ वरोऽस्मत्तो व्रियतामिति केशवम्॥
-
Mantra 96-97
श्रीभगवानुवाच॥ भवेतामद्य मे तुष्टौ मम वध्यावुभावपि॥
-
Mantra 98
किमन्येन वरेणात्र एतावद्धि वृतं मम॥
-
Mantra 99-100
ऋषिरुवाच॥ वञ्चिताभ्यामिति तदा सर्वमापोमयं जगत्॥
-
Mantra 101
विलोक्य ताभ्यां गदितो भगवान् कमलेक्षणः। आवां जहि न यत्रोर्वी सलिलेन परिप्लुता॥
-
Mantra 102-103
ऋषिरुवाच॥ तथेत्युक्त्वा भगवता शङ्खचक्रगदाभृता। कृत्वा चक्रेण वै च्छिन्ने जघने शिरसी तयोः॥
-
Mantra 104
एवमेषा समुत्पन्ना ब्रह्मणा संस्तुता स्वयम्। प्रभावमस्या देव्यास्तु भूयः शृणु वदामि ते॥ ऐं ॐ॥
-
Colophon
इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये मधुकैटभवधो नाम प्रथमोऽध्यायः॥
Mantra numbers follow the Gita Press numbering, in which the line naming the speaker (such as “ऋषिरुवाच”) counts as a mantra of its own and is read together with the verse that follows.